हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 112 – युद्धकाण्ड द्वादशोत्तरशततमः सर्गः (११२)
॥ विभीषणविलापः ॥
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।
शोकवेगपरीतात्मा विललाप विभीषणः ॥ १ ॥
वीर विक्रान्तविख्यात विनीत नयकोविद ।
महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ॥ २ ॥
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥ ३ ॥
तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् ।
काममोहपरीतस्य यत्ते न रुचितं वचः ॥ ४ ॥
यन्न दर्पात्प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।
न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः ॥ ५ ॥
न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः ।
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ॥ ६ ॥
गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ।
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ॥ ७ ॥
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ।
अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ॥ ८ ॥
किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् ।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥ ९ ॥
धृतिप्रवालः प्रसहाग्र्यपुष्पः
तपोबलः शौर्यनिबद्धमूलः ।
रणे महान्राक्षसराजवृक्षः
संमर्दितो राघवमारुतेन ॥ १० ॥
तेजोविषाणः कुलवंशवंशः
कोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहः
सुप्तः क्षितौ रावणगन्धहस्ती ॥ ११ ॥
पराक्रमोत्साहविजृम्भितार्चिः
निश्वासधूमः स्वबलप्रतापः ।
प्रतापवान्सम्यति राक्षसाग्निः
निर्वापितो रामपयोधरेण ॥ १२ ॥
सिंहर्क्षलाङ्गूलककुद्विषाणः
पराभिजिद्गन्धनगन्धहस्ती ।
रक्षोवृषश्चापलकर्णचक्षुः
क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ १३ ॥
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥ १४ ॥
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।
अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः ॥ १५ ॥
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ १६ ॥
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।
तस्मिन्कालसमायुक्ते न कालः परिशोचितुम् ॥ १७ ॥
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।
परैर्वा हन्यते वीरः परान्वा हन्ति सम्युगे ॥ १८ ॥
इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता ।
क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चयः ॥ १९ ॥
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥ २० ॥
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।
उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् ॥ २१ ॥
योऽयं विमर्देषु न भग्नपूर्वः
सुरैः समेतैः सह वासवेन ।
भवन्तमासाद्य रणे विभग्नो
वेलामिवासाद्य यथा समुद्रः ॥ २२ ॥
अनेन दत्तानि सुपूजितानि
भुक्ताश्च भोगा निभृताश्च भृत्याः ।
धनानि मित्रेषु समर्पितानि
वैराण्यमित्रेषु च यापितानि ॥ २३ ॥
एषो हिताग्नश्च महातपाश्च
वेदान्तगः कर्मसु चाग्र्यवीर्यः ।
एतस्य यत्प्रेतगतस्य कृत्यं
तत्कर्तुमिच्छामि तव प्रसादात् ॥ २४ ॥
स तस्य वाक्यैः करुणैर्महात्मा
सम्बोधितः साधु विभीषणेन ।
आज्ञापयामास नरेन्द्रसूनुः
स्वर्गीयमाधानमदीनसत्त्वः ॥ २५ ॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.